Antara-svaras are classified as śūdras in the caste hierarchy of svara types
"शूद्रौ चान्तरकौ स्वरौ"
<sup>44</sup>
BRHADDESI
प्राप्नोति हृदयं शीघ्रमन्यस्मादृषभः स्मृतः।
स्त्रीगवीषु यथा तिष्ठन् विभाति ऋषभो महान्।।
स्वरग्रामे समुत्पन्नः स्वरोऽयमृषभस्तथा ॥५६॥
वाचं गानात्मिका धत्त इति गान्धारसंज?्ञकः।
स्वराणा मध्यमत्वाच्च मध्यमः स्वर इष्यते।।५७॥
स्वरान्तराणा विस्तारं यो मिमीते स पञ्चमः।
पाठक्रमेण गणने संख्यया पञ्चमोऽथवा।।५८।।
धीरस्यास्तीति धीमांस्तत्सम्बन्धी धैवतः स्मृतः ।
यद्वा
२१षष्ठस्थाने धृतो यस्मात्तेनासौ धैवतो मतः॥५९॥
पञ्चमेन
<sup>30</sup>•त्ततोऽसी
ललाटे धैवत इत्यर्थः।
निषीदन्ति स्वरा सर्वे निषादस्तेन कथ्यते।।६०॥
[ स्वराणा सप्तसंख्यानियमः ]
[ अनु. २९ ]
31 ननु कथं सप्त स्वरा इति नियमः ? उच्यते—
यथा सप्तधात्वाश्रितत्वेन सप्तैव धातवो
रसादयो ज?ेया । तथा चाह सुश्रुतः —
'त्वगसृङ्मांसमेदोऽस्थिमज्ज?ाशुक्राणि धातवः' ।
इति। तथा सप्तचक्राश्रितत्वेन सप्तद्वीपाश्रितत्वेन वा सप्तैव स्वरा इति।
स्वरजातयः ]
चतुःश्रुतिस्वरा विप्रास्त्रिश्रुती क्षत्रियौ मतौ।
वैश्यौ द्विश्वतिकौ ज?्ञेयौ शूद्रौ चान्तरकौ स्वरौ <sup>32</sup>।।६१।।
[ आगमस्थः स्वरोद्धारः ]
वर्गाष्टकं तु सम्प्राप्य अकारादियशान्तकम्।
वर्णमात्रा अन्समायुक्तमुद्धरेत् स्वरसप्तकम् ॥६२॥
স