Nandāvatī elā is born of the lineage of vaisyas and has vīra as its rasa
"रसो वीरः समाख्यातो, वैश्याना कुलसम्भवा"
BRHADDEŚĪ
<sup>224</sup>
क्षत्रियाणा कुलं चैव रसो रौद्रः प्रकीर्तितः ।
यत्रानलगणा पञ्च षष्ठो वायुगणस्तथा ॥
एला हंसावती हन्त सा स्मृता गीतपारगैः ॥४३०॥
[३. नन्दावती]
लघुभिर्गमकैर्युक्ता रागे मालवकैशिके ।
एला नन्दावती नाम प्रतितालेन गीयते ॥४३१॥
इन्द्राणी देवता, वृत्तिः सात्त्वती तत्र कीर्तिता ।
गौडीया कथ्यते रीतिः, पीतो वर्णः स्मृतो बुधैः ॥ ४३२॥
रसो वीरः समाख्यातो, वैश्याना कुलसम्भवा।
व्यः
नादावत्यामिव सर्वं कर्तव्यं रागपूर्वकम् ॥४३३॥
(न?ना)
यत्राम्बरगणा पञ्च मार्तण्डगणसंयुता ।
मार्ताण्ड॰
एला नन्दावती सा तु विज?्ञेया गीतवेदिभिः ॥४३४॥
[४. भद्रावती]
एकैकपदसंयुक्ता मूर्छनाध्वनिसङ्कुला ।
कङ्कालतालसम्बन्धा ककुभेन प्रगीयते ॥४३५॥
एला भद्रावती नाम शूद्रजातिसमुद्भवा ।
कृष्णवर्णा च विज?्ञेया वैदर्भीरीतिशोभिता ॥४३६॥
भारतीवृत्तियुक्ता च बीभत्सरसभूषिता ।
वाराहीदेवतोपेता कथिता गीतकोविदैः ॥४३७॥
यत्र भूमिगणा पञ्च षष्ठो जलगणस्तथा ।
भद्रावतीति विख्याता सा स्मृता मुनिपुङ्गवैः ॥४३८॥
पुटपुङ्गवैः (?)