दक्षिणे कला, वार्तिके कला, चित्रे कला ।
स्वरपदगीते चच्चत्पुटादिताल:11 ।
[साधारणरागाणां ग्रामविभागः]
इदानीं साधारणानां ग्रामविभाग: प्रदर्श्यते -
भम्माणपञ्चमो ज्ञेयो मध्यमग्रामसम्भव:।
गान्धारपञ्चमो नर्त: षड्जकैशिक एव च ॥३४२॥5
रूपसाधारितो रागः शकः ककुभ एव च।
रेवगुप्तस्तु षड्जाख्ये ज्ञेयः पञ्चमषाडवः ॥6