अनु. ३९
एवं तावदुभयग्रामिक्यश्चतुर्दश मूर्छनाः सम्पूर्णाः कथिताः। इदानीं
तासां नामानि कथ्यन्ते—
षड्जे चोत्तरमन्द्रा•वा स्यान्6निषादे रजनी स्मृता7।
धैवते चोत्तरा ज्ञेया शुद्धषड्जा च पञ्चमे।। ९३।।
मध्यमे मत्सरी ज्ञेया गान्धारे चाश्वक्रान्तिका।
ऋषभेण च विज्ञेया सप्तमी चाभिरुद्रता
॥९४॥
षड्जग्रामाश्रितास्त्वेवं विज्ञेयाः सप्त मूर्छनाः।
अतः परं प्रवक्ष्यामि मध्यमग्राममूर्छनाः
॥९५॥
मध्यमेन च सौवीरी8 गान्धारे
हरिणायिकाह्या ।
स्यात् कलोपनता चैव ऋषभेणैव मूर्छना।।९६।।
शुद्धमध्या [ तु ] षड्जे स्यान्निषादे चैव मार्गिका।
पौरवी धैवते ज्ञेया हृष्यका पञ्चमे तथा।।९७।।
इति तावन्मया प्रोक्ता मध्यमग्राममूर्छना4ः।
इदानी सम्प्रवक्ष्यामि षाडवौडुवमूर्छना5ः
॥९८॥
षट्स्वरा षाडवा ज्ञेया
औडुवा पञ्चिभः स्वरै2ः।
षाडवौडुवितानांअनु. ४० च व्युत्पत्तिश्च निगद्यते।।९९।।
षट्स्वरा अवन्ति रक्षन्ति ये ते षाडवस्वराः। तेषां प्रयोगः षाडवः।
[अनु. ४१]
उडवो नक्षत्राणि गच्छन्ति यस्मिन्नाकाशे तदाकाशमौडुवम्। तेन पञ्च
संख्यायस्य तदौडुवितम्। लक्ष्यते, पञ्चमं हि महाभूतं, तत्स्था संख्या च विद्यते
षाडवं षट्स्वरं ज्ञेयं लक्षणं सप्तधा मतम्।
एकोनपञ्चाशत् संख्यं तज्ज्ञेयं गीतवेदिभिः
॥१००॥