अहं ते कथियध्यामि सर्वं तत्त्वेन लक्षणम् ।
पूर्वं ग्रामह्रयं प्रोक्तं ग्रामरागास्तदुद्भवा4ः
॥९॥
ग्रामरागोद्भवा भाषा भाषाभ्यश्च विभाषिका:।21
विभाषाभ्यश्च सञ्जातास्तथा चान्तरभाषिका:3 ॥१०॥
[ग्रामरागेषु भाषाणां सङ्ख्या, उद्देशश्च]
टक्करागे दश हे च केचिदिच्छन्ति षोडश।5
तत ऊर्ध्वं निगद्यन्ते चाष्टौ मालवकैशिके6 ॥११॥
ककुभे सप्त० (भै?भे) ये प्रोक्ता7ः
पञ्च हिन्दोलके स्मृता8ः ।
पञ्चमे दश विख्याता
भित्रषड्जे नव स्मृता:9 ॥१२॥
सौवीरके चतस्रस्तु चतस्रो भिन्नपञ्चमे ।
बोट्टरागे तथाऽप्येका तथा
मालवपञ्चमे ॥१३॥
टक्ककैशिकजास्तिस्रो द्वे च वेसरषाडवे।
भिन्नताने तथा ह्येका चैका
गान्धारपञ्चमे ॥१४॥
पञ्चमषाडवे॰(मा?म) ह्येका इत्येतास्तु समासत:।
भाषा विभाषा: कथितास्त्र्यधिका सप्ततिर्बुधै:10 ॥१५॥
भाषाणां चैव नामानि लक्षणं च निबोधत।
प्रथमा त्रवणा ज्ञेया11 द्वितीया त्रवणोद्भवा12॥१६॥
वेरिञ्जका तृतीया तु13 छेवाटी च चतुर्थिका14।
मालवेसरिका तत्र प्रयोक्तव्या तु पञ्चमी15 ॥१७॥
षष्ठी च गूर्जरी ज्ञेया सौराष्ट्री सप्तमी तथा।
अष्टमी सैन्धवी चैव वेसरी नवमी तथा
॥१८॥
पञ्चमाख्या तु दशमी रविचन्द्रा तथा भवेत्।
न्ही?